(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.179. अध्यायः 179
Mahabharata - Vana Parva - Chapter Topics
गन्धमादनादवतीर्णैः पाण्डवैः क्रमेण कैलासवृषपर्वसुबाह्वादिनिवासगमनपूर्वकं पुनर्द्वैतदनमेत्य सरस्वतीतीरे सुखविहरणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-179-0x(2333)(22798)
नगोत्तमं प्रस्रवणैरुपेतं
दिशां गजैः किन्नरपक्षिभिश्च।
सुखं निवासं जहतां हि तेषां
न प्रीतिरासीद्भरतर्षभाणाम् ॥ 3-179-1(22799)
ततस्तु तेषां पुनरेव हर्षः
कैलासमालोक्य महान्बभूव।
कुबेरकान्तं भरतर्षभाणां
महीधरं वारिधरप्रकाशम् ॥ 3-179-2(22800)
समुच्छ्रयान्पर्वतसंनिरोधान्
गोष्ठान्हरीणां गिरिगह्वराणि।
बहुप्रकाराणि समीक्ष्यवीराः
स्थलानि निम्नानि च तत्र तत्र ॥ 3-179-3(22801)
तथैव चान्यानि महावनानि
मृगद्विजानेकपसेवितानि।
आलोकयन्तोऽभिययुः प्रतीता-
स्ते धन्विनाः खङ्गधरा नराग्र्याः ॥ 3-179-4(22802)
वनानि रम्याणि नदीः सरांसि
गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवु-
र्निशामुखं प्राप्य नरर्षभाणाम् ॥ 3-179-5(22803)
ते दुर्गवासं बहुधा निरुष्य
व्यतीत्य कैलासमचिन्त्यरूपम्।
आसेदुरत्यर्थमनोरमं ते
तमाश्रमाग्र्यं वृषपर्वणस्तु ॥ 3-179-6(22804)
समेत्य राज्ञा वृषपर्वणा ते
प्रत्यर्चितास्तेन च वीतमोहाः।
शशंसिरे विस्तरशः प्रवासं
शिवं यथावद्वृषपर्वणस्ते ॥ 3-179-7(22805)
सुखोषितास्तस्य त एकरात्रं
पुण्याश्रमे देवमहर्षिजुष्टे।
अभ्याययुस्ते बदरीं विशालां
सुखेन वीराः पुनरेव वासम् ॥ 3-179-8(22806)
ऊषुस्ततस्तत्र महानुभावा
नारायणस्थानगताः समग्राः।
कुबेरकान्तां नलिनीं विशोकाः
संपश्यमानाः सुरसिद्धजुष्टाम् ॥ 3-179-9(22807)
तां चाथ दृष्ट्वा नलिनीं विशोकाः
पाण्डोः सुताः सर्वनरप्रधानाः।
ते रेमिरे नन्दनवासमेत्य
द्विजर्षयो वीतमला यथैव ॥ 3-179-10(22808)
ततः क्रमेणोपययुर्नृवीरा
यथागतेनैव पथा समग्राः।
विहृत्य मासं सुखिनो बदर्यां
किरातराज्ञो विषयं सुबाहोः ॥ 3-179-11(22809)
चीनांस्तुषारान्दरदांश्च सर्वान्
देशान्कुलिन्दस्य च भूरिरम्यान्।
अतीत्य दुर्गं हिमवत्प्रदेशं
पुरं सुबाहोर्ददृशुर्नृवीराः ॥ 3-179-12(22810)
श्रुत्वा च तान्पार्थिव पुत्रपौत्रा-
न्प्राप्तान्सुबाहुर्विषये समग्रान्।
प्रत्युद्ययौ प्रीतियुतः स राजा
तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ 3-179-13(22811)
समेत्य राज्ञा तु सुबाहुना ते
सुतैर्विशोकप्रमुखैश्च सर्वे।
सहेनद्रसेनैः परिचारकैश्च
पौरोगवैर्ये च रमहानसस्थाः ॥ 3-179-14(22812)
सुखोपितास्तत्रत एकरात्रं
सूतान्समादाय रथांश्च सर्वान्।
घटोत्कचं सानुचरं विसृज्य
ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ 3-179-15(22813)
तस्मिन्गिरौ प्रस्रवणोपपन्न-
हिमोत्तरीयारुणपाण्डुसानौ।
विशाखयूपं समुपेत्य चक्रु-
स्तदा निवासं पुरुषप्रवीराः ॥ 3-179-16(22814)
वराहनानामृगपक्षिजुष्टं
महावनं चैत्ररथप्रकाशम्।
शिवेन यात्वा मृगयाप्रधानाः
संवत्सरं तत्रवने विजह्रुः ॥ 3-179-17(22815)
तत्राससादातिबलं भुजङ्गं
क्षुधार्दितं मृत्युमिवोग्ररूपम्।
वृकोदरः पर्वतकन्दरायां
विषादमोहव्यथितान्तरात्मा ॥ 3-179-18(22816)
द्वीपोऽभवद्यत्र वृकोदरस्य
युधिष्ठिरो धर्मभृतां वरिष्ठः।
अमोक्षयद्यस्तमनन्ततेजा
ग्राहेण संवेष्टितसर्वगात्रम् ॥ 3-179-19(22817)
ते द्वादशं वर्षमथोपयान्तं
वने विहुर्तुं कुरवः प्रतीताः।
तस्माद्वनाच्चैत्ररथप्रकाशा-
च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ 3-179-20(22818)
ततश्च यात्वा मरुधन्वपार्श्वं
सदा धनुर्वेदरतिप्रधानाः।
सरस्वतीमेत्य निवासकामाः
सरस्ततो द्वैतवनं प्रतीयुः ॥ 3-179-21(22819)
समीक्ष् तान्द्वैतवने निविष्टा-
न्निवासिनस्तत्रततोऽभिजग्मुः।
तपोदमाचारसमाधियुक्ता-
स्तृणोदपात्रावरणाश्मकुट्टाः ॥ 3-179-22(22820)
प्लक्षाक्षरौहीतकवेतसाश्च
तथा बदर्यः खदिराः शिरीषाः।
बिल्वेङ्गुदाः पीलुशमीकरीराः
सरस्वतीतीररुहा बभूवुः ॥ 3-179-23(22821)
तां यक्षगन्धर्वमहर्षिकान्ता-
मावासभूतामिव देवतानाम्।
सरस्वतीं प्रीतियुताश्चरन्तः
सुखं विजह्रुर्नरदेवपुत्राः ॥ 3-179-24(22822)

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-179-1 नगोत्तमं गन्धमादनं जहतां त्यजताम् ॥ 3-179-2 कुबेरस्य कान्तं प्रियम् ॥ 3-179-3 समुच्छ्रयान् उच्चैस्त्वानि। संनिरोधान् संकीर्णत्वानि। गोष्ठान् स्थानानि। हरीणां सिंहानाम् ॥ 3-179-4 अनेकपाः द्विपाः ॥ 3-179-5 गुहा अल्पप्रमाणादरी। गह्वरं महती दरी ॥ 3-179-9 नलिनीं सरसीम् ॥ 3-179-10 नन्दनमिन्द्रवनम् ॥ 3-179-14 पौरोगवैः पुरोगामिभिः पटगृहादिसामग्रीवाहः ॥ 3-179-15 यामुनं यमुनोद्गमम् ॥ 3-179-16 पुंसि यथा श्वेतमुत्तरीयं श्वेतारुणमुष्णीषं च तद्वत् गिरौ प्रस्रवणानि अरुणपाण्डसानूनि च भान्तीत्युत्प्रेक्षा। विशाखयूपं स्थानविशेषः ॥ 3-179-17 शिवेन पार्थाः इति झ. पाठः ॥ 3-179-19 द्वीपो द्वीपवदाश्रयः। ग्राहेण सर्वेण ॥ 3-179-22 तृणोदपात्रावरणाः आसनार्थं तृणेन पाद्यार्थं उदकपात्रेण च आवृण्वनति ते तथाभूताः। अश्मकुट्टाः वानप्रस्था दन्तोलूखलिका एव सन्तो जरया नष्टदन्ता अश्मकुट्टा भवन्ति ॥ 3-179-23 बभूवुः शोभावन्त इति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.