|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.179. अध्यायः 179
Mahabharata - Vana Parva - Chapter Topics
गन्धमादनादवतीर्णैः पाण्डवैः क्रमेण कैलासवृषपर्वसुबाह्वादिनिवासगमनपूर्वकं पुनर्द्वैतदनमेत्य सरस्वतीतीरे सुखविहरणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-179-0x(2333)(22798)
नगोत्तमं प्रस्रवणैरुपेतं
दिशां गजैः किन्नरपक्षिभिश्च।
सुखं निवासं जहतां हि तेषां
न प्रीतिरासीद्भरतर्षभाणाम् ॥ 3-179-1(22799)
ततस्तु तेषां पुनरेव हर्षः
कैलासमालोक्य महान्बभूव।
कुबेरकान्तं भरतर्षभाणां
महीधरं वारिधरप्रकाशम् ॥ 3-179-2(22800)
समुच्छ्रयान्पर्वतसंनिरोधान्
गोष्ठान्हरीणां गिरिगह्वराणि।
बहुप्रकाराणि समीक्ष्यवीराः
स्थलानि निम्नानि च तत्र तत्र ॥ 3-179-3(22801)
तथैव चान्यानि महावनानि
मृगद्विजानेकपसेवितानि।
आलोकयन्तोऽभिययुः प्रतीता-
स्ते धन्विनाः खङ्गधरा नराग्र्याः ॥ 3-179-4(22802)
वनानि रम्याणि नदीः सरांसि
गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवु-
र्निशामुखं प्राप्य नरर्षभाणाम् ॥ 3-179-5(22803)
ते दुर्गवासं बहुधा निरुष्य
व्यतीत्य कैलासमचिन्त्यरूपम्।
आसेदुरत्यर्थमनोरमं ते
तमाश्रमाग्र्यं वृषपर्वणस्तु ॥ 3-179-6(22804)
समेत्य राज्ञा वृषपर्वणा ते
प्रत्यर्चितास्तेन च वीतमोहाः।
शशंसिरे विस्तरशः प्रवासं
शिवं यथावद्वृषपर्वणस्ते ॥ 3-179-7(22805)
सुखोषितास्तस्य त एकरात्रं
पुण्याश्रमे देवमहर्षिजुष्टे।
अभ्याययुस्ते बदरीं विशालां
सुखेन वीराः पुनरेव वासम् ॥ 3-179-8(22806)
ऊषुस्ततस्तत्र महानुभावा
नारायणस्थानगताः समग्राः।
कुबेरकान्तां नलिनीं विशोकाः
संपश्यमानाः सुरसिद्धजुष्टाम् ॥ 3-179-9(22807)
तां चाथ दृष्ट्वा नलिनीं विशोकाः
पाण्डोः सुताः सर्वनरप्रधानाः।
ते रेमिरे नन्दनवासमेत्य
द्विजर्षयो वीतमला यथैव ॥ 3-179-10(22808)
ततः क्रमेणोपययुर्नृवीरा
यथागतेनैव पथा समग्राः।
विहृत्य मासं सुखिनो बदर्यां
किरातराज्ञो विषयं सुबाहोः ॥ 3-179-11(22809)
चीनांस्तुषारान्दरदांश्च सर्वान्
देशान्कुलिन्दस्य च भूरिरम्यान्।
अतीत्य दुर्गं हिमवत्प्रदेशं
पुरं सुबाहोर्ददृशुर्नृवीराः ॥ 3-179-12(22810)
श्रुत्वा च तान्पार्थिव पुत्रपौत्रा-
न्प्राप्तान्सुबाहुर्विषये समग्रान्।
प्रत्युद्ययौ प्रीतियुतः स राजा
तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ 3-179-13(22811)
समेत्य राज्ञा तु सुबाहुना ते
सुतैर्विशोकप्रमुखैश्च सर्वे।
सहेनद्रसेनैः परिचारकैश्च
पौरोगवैर्ये च रमहानसस्थाः ॥ 3-179-14(22812)
सुखोपितास्तत्रत एकरात्रं
सूतान्समादाय रथांश्च सर्वान्।
घटोत्कचं सानुचरं विसृज्य
ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ 3-179-15(22813)
तस्मिन्गिरौ प्रस्रवणोपपन्न-
हिमोत्तरीयारुणपाण्डुसानौ।
विशाखयूपं समुपेत्य चक्रु-
स्तदा निवासं पुरुषप्रवीराः ॥ 3-179-16(22814)
वराहनानामृगपक्षिजुष्टं
महावनं चैत्ररथप्रकाशम्।
शिवेन यात्वा मृगयाप्रधानाः
संवत्सरं तत्रवने विजह्रुः ॥ 3-179-17(22815)
तत्राससादातिबलं भुजङ्गं
क्षुधार्दितं मृत्युमिवोग्ररूपम्।
वृकोदरः पर्वतकन्दरायां
विषादमोहव्यथितान्तरात्मा ॥ 3-179-18(22816)
द्वीपोऽभवद्यत्र वृकोदरस्य
युधिष्ठिरो धर्मभृतां वरिष्ठः।
अमोक्षयद्यस्तमनन्ततेजा
ग्राहेण संवेष्टितसर्वगात्रम् ॥ 3-179-19(22817)
ते द्वादशं वर्षमथोपयान्तं
वने विहुर्तुं कुरवः प्रतीताः।
तस्माद्वनाच्चैत्ररथप्रकाशा-
च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ 3-179-20(22818)
ततश्च यात्वा मरुधन्वपार्श्वं
सदा धनुर्वेदरतिप्रधानाः।
सरस्वतीमेत्य निवासकामाः
सरस्ततो द्वैतवनं प्रतीयुः ॥ 3-179-21(22819)
समीक्ष् तान्द्वैतवने निविष्टा-
न्निवासिनस्तत्रततोऽभिजग्मुः।
तपोदमाचारसमाधियुक्ता-
स्तृणोदपात्रावरणाश्मकुट्टाः ॥ 3-179-22(22820)
प्लक्षाक्षरौहीतकवेतसाश्च
तथा बदर्यः खदिराः शिरीषाः।
बिल्वेङ्गुदाः पीलुशमीकरीराः
सरस्वतीतीररुहा बभूवुः ॥ 3-179-23(22821)
तां यक्षगन्धर्वमहर्षिकान्ता-
मावासभूतामिव देवतानाम्।
सरस्वतीं प्रीतियुताश्चरन्तः
सुखं विजह्रुर्नरदेवपुत्राः ॥ 3-179-24(22822)
इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-179-1 नगोत्तमं गन्धमादनं जहतां त्यजताम् ॥ 3-179-2 कुबेरस्य कान्तं प्रियम् ॥ 3-179-3 समुच्छ्रयान् उच्चैस्त्वानि। संनिरोधान् संकीर्णत्वानि। गोष्ठान् स्थानानि। हरीणां सिंहानाम् ॥ 3-179-4 अनेकपाः द्विपाः ॥ 3-179-5 गुहा अल्पप्रमाणादरी। गह्वरं महती दरी ॥ 3-179-9 नलिनीं सरसीम् ॥ 3-179-10 नन्दनमिन्द्रवनम् ॥ 3-179-14 पौरोगवैः पुरोगामिभिः पटगृहादिसामग्रीवाहः ॥ 3-179-15 यामुनं यमुनोद्गमम् ॥ 3-179-16 पुंसि यथा श्वेतमुत्तरीयं श्वेतारुणमुष्णीषं च तद्वत् गिरौ प्रस्रवणानि अरुणपाण्डसानूनि च भान्तीत्युत्प्रेक्षा। विशाखयूपं स्थानविशेषः ॥ 3-179-17 शिवेन पार्थाः इति झ. पाठः ॥ 3-179-19 द्वीपो द्वीपवदाश्रयः। ग्राहेण सर्वेण ॥ 3-179-22 तृणोदपात्रावरणाः आसनार्थं तृणेन पाद्यार्थं उदकपात्रेण च आवृण्वनति ते तथाभूताः। अश्मकुट्टाः वानप्रस्था दन्तोलूखलिका एव सन्तो जरया नष्टदन्ता अश्मकुट्टा भवन्ति ॥ 3-179-23 बभूवुः शोभावन्त इति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|